एतद्योनीनि भूतानि...zt
अन्तर्विषयाः
- १ श्लोकः
- २ पदच्छेदः
- ३ अन्वयः
- ४ शब्दार्थः
- ५ अर्थः
- ६ बाह्यसम्पर्कतन्तुः
- ७ सम्बद्धाः लेखाः
श्लोकः[सम्पादयतु]
- एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः[सम्पादयतु]
एतत् योनीनि भूतानि सर्वाणि इति उपधारय अहं कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥ ६ ॥
अन्वयः[सम्पादयतु]
सर्वाणि भूतानि एतद्योनीनि इति उपधारय । अहं कृत्स्नस्य जगतः प्रभवः तथा प्रलयः ।
शब्दार्थः[सम्पादयतु]
- सर्वाणि = सकलानि
- भूतानि = भूतजातानि
- एतद्योनीनि इति = एतत्प्रकृतिद्वयसम्भवानि इति
- उपधारय = जानीहि
- अहम् = अहम्
- कृत्स्नस्य = समग्रस्य
- जगतः = लोकस्य
- प्रभवः = उत्पत्तिकारणम्
- तथा = तथा
- प्रलयः = विनाशकारणम् ।
अर्थः[सम्पादयतु]
सर्वाणि भूतानि प्रकृतिसम्भवानि इति जानीहि । इदं समग्रं जगत् मत्त एव निर्गच्छति, मय्येव च लीनं भवति ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
- संस्कृतम्
- श्रीमद्भगवद्गीता
- शङ्कराचार्यः
- रामानुजाचार्यः